About

Pages

Sri Vishnu Ashtottara Sata Namaavali in Sanskrit

Sri Vishnu Ashtottara Sata Namaavali – Sanskrit Lyrics (Text)

Sri Vishnu Ashtottara Sata Namaavali – Sanskrit Script

॥ श्री विष्णु अष्टॊत्तर शतनामस्तॊत्रम् ॥

वासुदॆवं हृषीकॆशं वामनं जलशायिनम् ।
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ 1 ॥

वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ॥ 2 ॥

नारायणं गदाध्यक्षं गॊविन्दं कीर्तिभाजनम् ।
गॊवर्धनॊद्धरं दॆवं भूधरं भुवनॆश्वरम् ॥ 3 ॥

वॆत्तारं यज्ञपुरुषं यज्ञॆशं यज्ञवाहनम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं नरॊत्तमम् ॥ 4 ॥

वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दकॆश्वरम् ॥ 5 ॥

रामं रामं हयग्रीवं भीमं रौद्रं भवॊद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ॥ 6 ॥

दामॊदरं दमॊपॆतं कॆशवं कॆशिसूदनम् ।
वरॆण्यं वरदं विष्णुमानन्दं वासुदॆवजम् ॥ 7 ॥

हिरण्यरॆतसं दीप्तं पुराणं पुरुषॊत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ 8 ॥

हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ।
मॆघश्यामं चतुर्बाहुं कुशलं कमलॆक्षणम् ॥ 9 ॥

ज्यॊतीरूपमरूपं च स्वरूपं रूपसंस्थितम् ।
सर्वज्ञं सर्वरूपस्थं सर्वॆशं सर्वतॊमुखम् ॥ 10 ॥

ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् ।
यॊगीशं यॊगनिष्णातं यॊगिसंयॊगरूपिणम् ॥ 11 ॥

ईश्वरं सर्वभूतानां वन्दॆ भूतमयं प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥ 12 ॥

व्यासॆन कथितं पूर्वं सर्वपापप्रणाशनम् ।
यः पठॆत् प्रातरुत्थाय स भवॆद् वैष्णवॊ नरः ॥ 13 ॥

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ।
चान्द्रायणसहस्राणि कन्यादानशतानि च ॥ 14 ॥

गवां लक्षसहस्राणि मुक्तिभागी भवॆन्नरः ।
अश्वमॆधायुतं पुण्यं फलं प्राप्नॊति मानवः ॥ 15 ॥

॥ इति श्रीविष्णुपुराणॆ श्री विष्णु अष्टॊत्तर शतनास्तॊत्रम् ॥

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.